|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.219. अध्यायः 219
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
महेश्वरेण पार्वतींप्रति शुभाशुभकर्मणोः सुखदुःखहेतुत्वकथनम्॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Text
उमोवाच।
भगवन्देवदेवेश मानुषेष्वेव केचन।
ज्ञानविज्ञानसम्पन्ना बुद्धिमन्तो विचक्षणाः॥ 13-219-1(89989)
दुर्गतास्तु प्रदृश्यन्ते यतमाना यथाविधि।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि॥ 13-219-2(89990)
महेश्वर उवाच। 13-219-3x(7513)
तदहं ते प्रवक्ष्यामि शृणु कल्याणि कारणम्॥ 13-219-3(89991)
ये पुरा मनुजा देवि श्रुतवन्तोपि केवलम्।
निरा**** निरन्नाद्या भृशमात्मपरायणाः॥ 13-219-4(89992)
ते पुनर्जन्मनि शुभे ज्ञानबुद्धियुता अपि।
निष्किञ्चना भवन्त्येव अनुप्तं हि न रोहति॥ 13-219-5(89993)
उमोवाच। 13-219-6x(7514)
मूर्खा लोके प्रदृश्यन्ते वृथा मूढा विचेतसः।
ज्ञानविज्ञानरहिताः समृद्धाश्च समन्ततः।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि॥ 13-219-6(89994)
महेश्वर उवाच। 13-219-7x(7515)
ये पुरा मनुजा देवि बालिशा अपि सर्वतः।
समाचरन्ति दानानि दीनानुग्रहकारणात्॥ 13-219-7(89995)
अबुद्धिपूर्वं वा दानं ददत्येव यतस्ततः।
ते पुनर्जन्मनि शुभे प्राप्नुवन्त्येव तत्तथा॥ 13-219-8(89996)
पण्डितोऽपण्डितो वाऽपि भुङ्क्ते दानफलं नरः।
बुद्ध्याऽनपेक्षितं दानं सर्वथा तत्फलत्युत॥ 13-219-9(89997)
उमोवाच। 13-219-10x(7516)
भगवन्देवदेवेश मानुषेष्वेव केचन।
मेधाविनः श्रुतधरा भवन्ति विशदाक्षराः।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि॥ 13-219-10(89998)
महेश्वर उवाच। 13-219-11x(7517)
ये पुरा मनुजा देवि गुरुशुश्रूषका भृशम्।
ज्ञानार्थं ते तु सङ्गृह्य तीर्थतो विधिपूर्वकम्॥ 13-219-11(89999)
विधिनैव परांश्चैव ग्राहयन्ति च नान्यथा।
अश्लाघमाना ज्ञानेन प्रशान्ता यतवाचकाः।
विद्यास्थानानि ये लोके स्थापयन्ति च यत्नतः॥ 13-219-12(90000)
तादृश मरणं प्राप्ताः पुनर्जन्मनि शोभने।
मेधाविनः श्रुतधरा भवन्ति विशदाक्षराः॥ 13-219-13(90001)
उमोवाच। 13-219-14x(7518)
अपरे मानुषा देव यतन्तोपि यतस्ततः।
बहिष्कृताः प्रदृश्यन्ते श्रुतविज्ञानबुद्धितः।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि॥ 13-219-14(90002)
महेश्वर उवाच। 13-219-15x(7519)
ये पुरा मनुजा देवि ज्ञानदर्पसमन्विताः।
श्लाघमानाश्च तत्प्राप्य ज्ञानाहङ्कारमोहिताः॥ 13-219-15(90003)
वदन्ति ये परान्नित्यं ज्ञानाधिक्येन दर्पिताः।
ज्ञानादसूयां कुर्वन्ति न सहन्ते च चापरान्॥ 13-219-16(90004)
तादृशा मरणं प्राप्ताः पुनर्जन्मनि शोभने।
मानुष्यं सुचिरात्प्राप्य तत्र बोधविवर्जिताः।
भवन्ति सततं देवि यतन्तो हीनमेधसः॥ 13-219-17(90005)
उमोवाच। 13-219-18x(7520)
भगवन्मानुषाः केचित्सर्वकल्याणसंयुताः।
पुत्रैर्दारैर्गुणयुतैर्दासीदासपरिच्छदैः॥ 13-219-18(90006)
परमं बुद्धिसंयुक्ताः स्थानैश्वर्यपरिग्रहैः।
व्याधिहीना नबाधाश्च रूपारोग्यबलैर्युताः॥ 13-219-19(90007)
धनधान्येन सम्पन्नाः प्रासादैर्यानवाहनैः।
सर्वोपभोगसंयुक्ता नानाचित्रैर्मनोहरैः॥ 13-219-20(90008)
ज्ञातिभिः सह मोदन्ते अविघ्नं तु दिनेदिने।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि॥ 13-219-21(90009)
महेश्वर उवाच। 13-219-22x(7521)
तदहं ते प्रवक्ष्यामि शृणु सर्वं समाहिता॥ 13-219-22(90010)
ये पुरा मनुजा देवि आढ्या वा इतरेऽपि वा।
श्रुतवृत्तसमायुक्ता दानकामाः श्रुतप्रियाः॥ 13-219-23(90011)
परेङ्गितपरा नित्यं दातव्यमिति निश्चिताः।
सत्यसन्धाः क्षमाशीला लोभमोहविवर्जिताः॥ 13-219-24(90012)
दातारः पात्रतो दानं व्रतैर्नियमसंयुताः।
स्वदुःखमिव संस्मृत्य परदुःखविवर्जिताः।
सौम्यशीलाः शुभाचारा देवब्राह्मणपूजकाः॥ 13-219-25(90013)
एवंशीलसमाचाराः पुनर्जन्मनि शोभने।
दिवि वा भुवि वा देवि जायन्ते कर्मभोगिनः॥ 13-219-26(90014)
मानुषेष्वपि ये जातास्तादृशाः सम्भवन्ति ते।
यादृशास्तु तथा प्रोक्ताः सर्वे कल्याणसंयुताः॥ 13-219-27(90015)
रूपं द्रव्यं बलं चायुर्भोगैश्वर्यं बलं श्रुतम्।
इत्येतत्सर्वसाद्गुण्यं दानाद्भवति नान्यथा।
तपोदानमयं सर्वमिति विद्धि शुभानने॥ 13-219-28(90016)
उमोवाच। 13-219-29x(7522)
अथ केचित्प्रदृश्यन्ते मानुषेष्वेव मानुषाः।
दुर्गताः क्लेशभूयिष्ठा दानभोगविवर्जिताः॥ 13-219-29(90017)
भयैस्त्रिभिः समाजुष्टा व्याधिक्षुद्भयसंयुताः।
दुष्कलत्राभिभूताश्च सततं विघ्नदर्शकाः।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि॥ 13-219-30(90018)
महेश्वर उवाच। 13-219-31x(7523)
ये पुरा मनुजा देवि आसुरं भावमाश्रिताः।
क्रोधलोभसमायुक्ता निरन्नाद्याश्च निष्क्रियाः॥ 13-219-31(90019)
नास्तिकाश्चैव धूर्ताश्च मूर्खाश्चात्मपरायणाः।
परोपतापिनो देवि प्रायशः प्राणिनिर्दयाः॥ 13-219-32(90020)
एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने।
कथंचित्प्राप्य मानुष्यं तत्र ते दुःखपीडिताः॥ 13-219-33(90021)
सर्वतः सम्भवन्त्येव पूर्वमात्मप्रमादतः।
यथा ते पूर्वकथितास्तथा ते सम्भवन्त्युत॥ 13-219-34(90022)
शुभाशुभं कृतं कर्म सुखदुःखफलोदयम्।
इति ते कथितं देवि भूयः श्रोतुं किमिच्छसि॥ ॥ 13-219-35(90023)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकोनविंशत्यधिकद्विशततमोऽध्यायः॥ 219 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|